CBSE Class 12 संस्कृत केंद्रिक (Sanskrit Core) Sample Paper 2 2026-27 with Marking Scheme (Hindi Medium)

पैटर्न: CBSE 2026-27 का आधिकारिक प्रतिदर्श प्रश्न-पत्र (SQP) डिज़ाइन · अधिकतम अंक: 80 · समय: 3 घंटे। पहले पेपर हल करें, फिर सबसे नीचे अंकन योजना खोलकर अपने उत्तर जाँचें।

ANSHUL ACADEMY · anshulacademy.in

संस्कृतम् (केन्द्रिकम्, कोड-सङ्ख्या 322)

आदर्श-प्रश्नपत्रम् 2 (Sample Paper 2)
कक्षा – द्वादशी (2026-27) · भास्वती द्वितीयो भागः, संस्कृतसाहित्यपरिचयः
समयः – होरात्रयम्पूर्णाङ्काः – 80

सामान्यनिर्देशाः –

  1. अस्मिन् प्रश्नपत्रे 18 प्रमुखाः प्रश्नाः सन्ति। सर्वे प्रश्नाः अनिवार्याः।
  2. अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति –
    ‘क’ खण्डः अपठितावबोधनम् 10 अङ्काः
    ‘ख’ खण्डः रचनात्मककार्यम् 15 अङ्काः
    ‘ग’ खण्डः अनुप्रयुक्तव्याकरणम् 20 अङ्काः
    ‘घ’ खण्डः I. पठितावबोधनम् 25 अङ्काः
    II. संस्कृतसाहित्येतिहासपरिचयः 10 अङ्काः
  3. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
  4. उत्तरलेखनात् पूर्वं प्रश्नपत्रानुसारं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
  5. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  6. यत्र ‘केवलं प्रश्नद्वयम्’ अथवा ‘केवलं प्रश्नत्रयम्’ इति निर्देशः अस्ति तत्र तावतां प्रश्नानाम् एव उत्तराणि लेखनीयानि। ‘अथवा’ इति चिह्निते स्थाने एकस्य एव विकल्पस्य उत्तरं लेखनीयम्।
  7. प्रश्न 3 इत्यस्य उत्तरं पञ्चविंशतितः त्रिंशत्पर्यन्तं (25-30) शब्दपरिमितम् लेखनीयम्। दृष्टिबाधितपरीक्षार्थिनः प्रश्न 3 (आ) इत्यस्य उत्तरं लिखन्तु।
  8. प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम्, उत्तरपुस्तिकायां किमपि न लेखनीयम्।
  9. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
‘क’ खण्डः · अपठितावबोधनम् (10 अङ्काः)
प्र. सं.
अङ्काः
1
10 अंक

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –
जलं जीवनस्य आधारः अस्ति। जलं विना न मनुष्याः, न पशवः, न च वृक्षाः जीवितुं शक्नुवन्ति। अतः जलं ‘जीवनम्’ इति अपि कथ्यते। पृथिव्यां यद्यपि बहु जलम् अस्ति, तथापि पेयजलम् अल्पम् एव। नद्यः, सरोवराः, कूपाः च अस्माकं जलस्य स्रोतांसि सन्ति। अद्य जनसङ्ख्या वर्धते, नगराणि च विस्तीर्णानि भवन्ति। अतः जलस्य आवश्यकता अपि दिने दिने वर्धते। जनाः अज्ञानेन जलस्य अपव्ययं कुर्वन्ति, नदीषु च अवकरं क्षिपन्ति। तेन जलं दूषितं भवति, रोगाः च प्रसरन्ति। अतः वयं वर्षाजलस्य सङ्ग्रहं कुर्याम, अधिकान् वृक्षान् च रोपयेम। स्नानसमये दन्तधावनसमये च नलं पिधाय जलं रक्षेम। जलसंरक्षणं न केवलं सर्वकारस्य, अपितु प्रत्येकस्य नागरिकस्य कर्तव्यम् अस्ति। यदि अद्य वयं जलं न रक्षिष्यामः, तर्हि भाविनः जनाः जलाय एव पीडिताः भविष्यन्ति।

इस प्रश्न-पत्र के लिए लिखा गया
(अ)
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
(i)
किं जीवनस्य आधारः अस्ति?
(ii)
पृथिव्यां किम् अल्पम् एव अस्ति?
(iii)
जनाः नदीषु किं क्षिपन्ति?
(आ)
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×2=4
(i)
जलस्य आवश्यकता दिने दिने किमर्थं वर्धते?
(ii)
जलरक्षणाय वयं किं किं कुर्याम?
(iii)
यदि वयम् अद्य जलं न रक्षिष्यामः तर्हि किं भविष्यति?
(इ)
अनुच्छेदस्य समुचितं शीर्षकं लिखत।
1
(ई)
यथानिर्देशम् उत्तरत –
3×1=3
(i)
‘प्रसरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?

(क) जनाः
(ख) नद्यः
(ग) रोगाः
(घ) वृक्षाः
(ii)
‘अपेक्षा’ इत्यर्थे किं पदं गद्यांशे प्रयुक्तम्?

(क) आवश्यकता
(ख) जनसङ्ख्या
(ग) अपव्ययः
(घ) कर्तव्यम्
(iii)
‘दूषितम्’ इति विशेषणपदस्य विशेष्यपदं किम्?

(क) रोगाः
(ख) अवकरम्
(ग) नद्यः
(घ) जलम्
10
‘ख’ खण्डः · रचनात्मककार्यम् (15 अङ्काः)
प्र. सं.
अङ्काः
2
10×½=5

भवान् सुरेशः, जयपुरस्य राजकीयविद्यालये द्वादशकक्षायां पठति। विद्यालयस्य पुस्तकालये संस्कृतपुस्तकानां व्यवस्थायै प्रधानाचार्यं प्रति लिखितं प्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखतु –

सेवायाम्
श्रीमन्तः (i) __________
राजकीय-उच्चतर-माध्यमिक-विद्यालयः
जयपुरम्
विषयः – (ii) __________ संस्कृतपुस्तकानां व्यवस्थायै प्रार्थनापत्रम्।
महोदयाः!

सविनयं निवेदनम् अस्ति यत् अहं भवतां विद्यालयस्य द्वादशकक्षायाः (iii) __________ अस्मि। अस्माकं विद्यालयस्य पुस्तकालये संस्कृतस्य (iv) __________ एव पुस्तकानि सन्ति। तत्र न संस्कृतपत्रिकाः, न च संस्कृतकथापुस्तकानि (v) __________। वयं संस्कृतसाहित्यम् अधिकं (vi) __________ इच्छामः। अतः (vii) __________ प्रार्थना अस्ति यत् पुस्तकालये संस्कृतकथानां नाटकानां पत्रिकाणां च व्यवस्था (viii) __________। एतेन वयं संस्कृतस्य (ix) __________ कर्तुं शक्ष्यामः।

सधन्यवादम्
भवताम् आज्ञाकारी शिष्यः
(x) __________
द्वादशकक्षा
तिथिः ……….

मञ्जूषा

करणीया, छात्रः, सुरेशः, पठितुम्, प्रधानाचार्याः, अल्पानि, अभ्यासम्, पुस्तकालये, मम, उपलभ्यन्ते

10×½=5
3
5 अंक

अ
अधः प्रदत्तं चित्रम् आधृत्य पञ्चविंशतितः त्रिंशत्पर्यन्तं (25-30) शब्दपरिमितैः शब्दैः अनुच्छेदमेकं लिखत –

प्रातःकाले शाकविपणिः: आपणे शाकविक्रेता तुलया शाकानि तोलयति, एका महिला स्यूतेन सह शाकानि क्रीणाति, तया सह एकः बालकः, समीपे एका धेनुः, पृष्ठे जनाः गृहाणि च
चित्रम्: अंशुल अकादमी द्वारा इस प्रश्न-पत्र के लिए बनाया गया
मञ्जूषा

विपणिः, आपणः, शाकविक्रेता, शाकानि, तुला, तोलयति, महिला, स्यूतः, क्रीणाति, बालकः, धेनुः, जनाः, गृहाणि, प्रातःकाले

अथवा
आ
अधः प्रदत्तं विषयम् आधृत्य पञ्चविंशतितः त्रिंशत्पर्यन्तं (25-30) शब्दपरिमितैः शब्दैः अनुच्छेदमेकं लिखत –

विषयः – ‘समयस्य महत्त्वम्’
मञ्जूषा

समयः, अमूल्यम्, धनम्, गतः, पुनः, न आगच्छति, समयपालनम्, छात्राः, कार्याणि, यथासमयम्, सफलताम्, आलस्यम्, त्यजेम, जीवने

5
4
5 अंक

अ
मञ्जूषाप्रदत्त-पदसहायतया अधोलिखितां कथां पूरयत –

कस्मिंश्चित् वने एकः निर्धनः (i) __________ वसति स्म। सः प्रतिदिनं वृक्षेभ्यः काष्ठानि (ii) __________। एकदा नद्याः तटे स्थितं वृक्षं छिन्दतः तस्य (iii) __________ जले अपतत्। सः अतीव (iv) __________ अभवत्, यतः तस्य जीविकायाः तदेव साधनम् आसीत्। तदा जलदेवता प्रकटीभूय सुवर्णमयं कुठारम् (v) __________ अपृच्छत् – “किम् अयं तव कुठारः?” काष्ठहारकः अवदत् – “न, अयं मम कुठारः (vi) __________।” ततः देवता रजतमयं कुठारम् आनयत्, परं सः तम् अपि न (vii) __________। अन्ते देवता लौहकुठारम् आनयत्। तं दृष्ट्वा सः (viii) __________ अवदत् – “आम्, अयमेव मम कुठारः।” तस्य (ix) __________ प्रसन्ना देवता तस्मै त्रीन् अपि कुठारान् अयच्छत्। सत्यम् एव उक्तम् – ‘(x) __________ एव जयते’।
मञ्जूषा

अगृह्णात्, काष्ठहारकः, सत्यम्, कुठारः, चिन्तितः, आनीय, सहर्षम्, अच्छिनत्, नास्ति, सत्यवादितया

10×½=5
अथवा
आ
अधोलिखिते संवादे मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत –

रमेशः – मित्र अजय! ह्यः त्वं कुत्र आसीः? अहं त्वां गृहे अन्विष्टवान्।
अजयः – (i) ____________________।
रमेशः – पुस्तकमेला कुत्र आयोजिता अस्ति?
अजयः – (ii) ____________________।
रमेशः – त्वया तत्र किं क्रीतम्?
अजयः – (iii) ____________________।
रमेशः – किं मेलायाम् अन्यत् अपि किञ्चित् आकर्षकम् आसीत्?
अजयः – (iv) ____________________।
रमेशः – अहम् अपि पुस्तकमेलां द्रष्टुम् इच्छामि।
अजयः – (v) ____________________।
मञ्जूषा

• आम्, तत्र बालकानां कृते कथावाचनं चित्रकलाप्रतियोगिता च आस्ताम्।
• ह्यः अहं पित्रा सह पुस्तकमेलां द्रष्टुम् अगच्छम्।
• तर्हि श्वः आवां सह गमिष्यावः।
• नगरस्य प्रगतिमैदाने पुस्तकमेला आयोजिता अस्ति।
• मया पञ्चतन्त्रस्य कथापुस्तकम् एकः शब्दकोशः च क्रीते।

5×1=5
5
‘ग’ खण्डः · अनुप्रयुक्तव्याकरणम् (20 अङ्काः)
प्र. सं.
अङ्काः
5
4 अंक

अ
अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत –
4×1=4
(क)
रामः – आर्य! गुणाः खल्वत्र।
(ख)
त्वं मम सेवकः + असि, मया यत्कथ्यते त्वया तद् विधेयम्।
(ग)
त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम्।
(घ)
ऋतध्वजः – अत्र + एव स्थित्वा श्रोष्यामि।
अथवा
आ
अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत –
4×1=4
(क)
पुरा धाराराज्ये सिन्धुल-संज्ञो राजा चिरं प्रजाः पर्यपालयत्।
(ख)
ततः + तयोः एवम् अभूदालापः।
(ग)
शोकात् + अवचनात् राज्ञा हस्तेनैव विसर्जितः।
(घ)
महापापिना मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति।
4
6
4×1=4

अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत –
(i)
बालं मे पुत्रं मुञ्जो राज्यलोभाद्विषादिना मारयिष्यति।

(क) राज्येन लोभात्
(ख) राज्यस्य लोभात्
(ग) राज्ये लोभात्
(घ) राज्याय लोभात्
(ii)
क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे।

(क) क्रमस्य प्राप्ते
(ख) क्रमाय प्राप्ते
(ग) क्रमे प्राप्ते
(घ) क्रमेण प्राप्ते
(iii)
धृततुम्बीपात्रः भव्यमूर्तिः संन्यासी दृष्टः।

(क) भव्या मूर्तिः यस्य सः
(ख) भव्यस्य मूर्तिः
(ग) भव्या च मूर्तिः च
(घ) भव्येन मूर्तिः
(iv)
पुनः गजेन्द्रम् आरूढः भोजो राजभवनमगात्।

(क) गजेन्द्रारूढम्
(ख) गजेन्द्रारूढाः
(ग) गजेन्द्रारूढः
(घ) गजेन्द्रारूढेन
4×1=4
7
4×1=4

अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत –
(i)
(संन्यासिनो हस्तं धृ + क्त्वा) इतस्तु सत्यं कथय कस्त्वम्?

(क) धरित्वा
(ख) धृत्वा
(ग) धृतवान्
(घ) धर्तुम्
(ii)
द्रौपदीं स्वीयां सम्पत्तिं मन्यमानः युधिष्ठिरः तां द्यूते हारितवान्।

(क) मन् + शतृ
(ख) मन् + क्तवतु
(ग) मन् + शानच्
(घ) मन् + तव्यत्
(iii)
अतः परं न मातुः परिवादं श्रु + तुमुन् इच्छामि।

(क) श्रुत्वा
(ख) श्रोतव्यम्
(ग) श्रुतवान्
(घ) श्रोतुम्
(iv)
आज्ञा चेत् अहमपि अस्यां परिचर्चायां सम्मिलितो भवेयम्।

(क) सम् + मिल् + क्त
(ख) सम् + मिल् + क्तवतु
(ग) सम् + मिल् + शतृ
(घ) सम् + मिल् + क्तिन्
4×1=4
8
4×1=4

समुचितविभक्तियुक्तं पदं प्रदत्तविकल्पेभ्यः चित्वा रिक्तस्थानपूर्तिं कृत्वा लिखत –
(i)
तदधुनैव परिष्कृतपारदभस्म __________ दद्याम्।

(क) त्वाम्
(ख) तुभ्यम्
(ग) त्वया
(घ) त्वयि
(ii)
स्वाभिमानिनि प्रिये! समक्षं __________ कथं कापि सपत्नी स्थातुं शक्नोति?

(क) ते
(ख) त्वाम्
(ग) त्वया
(घ) त्वयि
(iii)
वत्सराजेन च __________ भोजस्य अन्तिमसन्देशरूपेण तत्प्रदत्तः श्लोकः समर्पितः।

(क) राजानम्
(ख) राज्ञा
(ग) राज्ञः
(घ) राज्ञे
(iv)
इदमद्य __________ लब्धमिमं प्राप्स्ये मनोरथम्।

(क) अहम्
(ख) माम्
(ग) मया
(घ) मम
4×1=4
9
4 अंक

अ
वाच्यानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं लिखत –

माता – पुत्र! अद्य विद्यालये कः उत्सवः (i) __________?
पुत्रः – अम्ब! अद्य वनमहोत्सवः आचर्यते। सर्वैः छात्रैः नवाः (ii) __________ रोप्यन्ते।
माता – शोभनम्! (iii) __________ अपि कति वृक्षाः रोपयिष्यन्ते?
पुत्रः – मया पञ्च वृक्षाः रोपयिष्यन्ते, तेषां सेचनम् अपि मया एव (iv) __________।
मञ्जूषा

त्वया, करिष्यते, आचर्यते, वृक्षाः

4×1=4
अथवा
आ
वाच्यानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितानि वाक्यानि लिखत –
4×1=4
(i)
मया पत्रं __________ । (लिख्, लट्)
(ii)
__________ (युष्मद्, बहुवचनम्) भोजनं खाद्यते।
(iii)
श्वः छात्रेभ्यः पुरस्काराः __________ । (दा, लृट्)
(iv)
कविना __________ (कविता) रच्यते।
4
‘घ’ खण्डः भागः I · पठितावबोधनम् (25 अङ्काः)
प्र. सं.
अङ्काः
10
5 अंक

अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् यथानिर्देशं संस्कृतेन उत्तरत –
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः। … अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्, ये तत्र ब्राह्मणाः सम्मर्शिनः, युक्ता आयुक्ताः, अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः। एष आदेशः। एष उपदेशः। एतौ वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। एवं चैतदुपास्यम्।

भास्वती द्वितीयो भागः, पाठः 1 ‘अनुशासनम्’ (तैत्तिरीयोपनिषद्, शिक्षावल्ली)
I.
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×½=1
(क)
आचार्यः किम् अनूच्य अनुशास्ति?
(ख)
शिष्यः कं मा व्यवच्छेत्सीत्?
(ग)
‘कर्तव्यपरायणाः’ इत्यर्थे ब्राह्मणाः कीदृशाः स्युः?
II.
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
(क)
आचार्यः अन्तेवासिनं सर्वप्रथमं किम् उपदिशति?
(ख)
कर्मविचिकित्सायां सत्यां शिष्यः कथं वर्तेत?
(ग)
आचार्यः स्वस्य उपदेशस्य विषये किं कथयति?
III. (अ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
‘अनुशास्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(ख)
‘रूक्षाः’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
अथवा
(आ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
‘यथा ते तत्र वर्तेरन्’ अत्र ‘ते’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(ख)
‘धनम्’ इति विशेष्यपदस्य विशेषणपदं गद्यांशात् चित्वा लिखत।
5
11
5 अंक

अधोलिखितं पद्यांशं पठित्वा तदाधारितान् प्रश्नान् यथानिर्देशं संस्कृतेन उत्तरत –
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम्॥
दैवी संपद्विमोक्षाय निबन्धायासुरी मता।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥

भास्वती द्वितीयो भागः, पाठः 9 ‘कार्याकार्यव्यवस्थितिः’, श्लोकौ 4-5
I.
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×½=1
(क)
दैवी संपद् कस्मै मता?
(ख)
क्रोधः कीदृश्याः संपदः लक्षणम् अस्ति?
(ग)
‘पार्थ’ इति सम्बोधनं कस्मै प्रयुक्तम्?
II.
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
(क)
आसुरीं संपदम् अभिजातस्य के दोषाः भवन्ति?
(ख)
श्रीभगवान् पाण्डवं किमर्थं ‘मा शुचः’ इति कथयति?
(ग)
आसुरी संपद् किमर्थं त्याज्या?
III. (अ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
प्रथमश्लोके ‘संपदम्’ इति विशेष्यपदस्य विशेषणपदं किम्?
(ख)
‘दैवी’ इति पदस्य विलोमपदं पद्यांशे किं प्रयुक्तम्?
अथवा
(आ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
‘बन्धनाय’ इत्यर्थे किं पदं पद्यांशे प्रयुक्तम्?
(ख)
‘ज्ञानम्’ इति पदस्य विलोमपदं पद्यांशे किं प्रयुक्तम्?
5
12
5 अंक

अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्नान् यथानिर्देशं संस्कृतेन उत्तरत –
कुण्डला – जाने तेऽभिरुचिम् अध्ययने अध्यापने च। परं यथा लतेयं सहकारमवलम्बते तथैव नारी जीवनयात्रायां कमपि सहचरम् अपेक्षते यः तस्याः अवलम्बनं स्यात्।
मदालसा – नास्ति मत्कृते आवश्यकता अवलम्बनस्य। स्वयं समर्था जीवनपथे चलितुमहं न कस्यापि सङ्केतैः नर्तितुं पारयामि।
कुण्डला – नर्तिष्यसि तदा एकाकिनी एव।
मदालसा – (विहस्य) यदि त्वं शीघ्रमेव पतिगृहं गमिष्यसि तदा एकाकिनी भविष्यामि, परं एकः उपायः अपि चिन्तितः मया।
कुण्डला – कः उपायः?
मदालसा – सङ्गीतसाहित्यमाध्यमेन ब्रह्मविद्यां सरसां विधाय बहुभ्यः शिशुभ्यः शिक्षणं प्रदास्यामि।
भास्वती द्वितीयो भागः, पाठः 8 ‘मदालसा’ (वेदकुमारी घई, पुरन्ध्रीपञ्चकम्)
I.
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×½=1
(क)
लता कम् अवलम्बते?
(ख)
मदालसा कस्यापि कैः नर्तितुं न पारयति?
(ग)
कुण्डलायाः मते मदालसा कथं नर्तिष्यति?
II.
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
(क)
नारी जीवनयात्रायां कम् अपेक्षते?
(ख)
मदालसा कदा एकाकिनी भविष्यति?
(ग)
मदालसा कथं शिशुभ्यः शिक्षणं प्रदास्यति?
III. (अ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
‘ब्रह्मविद्याम्’ इति विशेष्यपदस्य विशेषणपदं नाट्यांशात् चित्वा लिखत।
(ख)
‘अध्यापने’ इति पदस्य विलोमपदं नाट्यांशे किं प्रयुक्तम्?
अथवा
(आ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
‘नर्तितुं पारयामि’ इत्यत्र ‘पारयामि’ इति क्रियापदस्य कर्तृपदं किम्?
(ख)
‘यः तस्याः अवलम्बनं स्यात्’ अत्र ‘तस्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
5
13
3 अंक

अ
अधोलिखितस्य पद्यस्य भावार्थं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखत –

अल्पज्ञ एव पुरुषः प्रलपत्यजस्रं
पाण्डित्यसम्भृतमतिस्तु मितप्रभाषी।
कांस्यं यथा हि कुरुतेऽतितरां निनादं
तद्वत् सुवर्णमिह नैव करोति नादम्॥

भास्वती, पाठः 5 ‘सूक्तिसौरभम्’, श्लोकः 12
भावार्थः – अल्पज्ञः जनः एव (i) __________ प्रलपति, किन्तु पाण्डित्येन पूर्णबुद्धिः विद्वान् (ii) __________ एव भाषते। यथा (iii) __________ अत्यधिकं निनादं करोति, तथा सुवर्णं नादं न करोति।
मञ्जूषा

मितम्, कांस्यम्, निरन्तरम्

3×1=3
अथवा
आ
प्रदत्त-भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत –
3×1=3
(i)
विभूषणं मौनमपण्डितानाम्।

(क) मूर्खाः सर्वदा उच्चैः वदेयुः।
(ख) विदुषां समाजे मूर्खाणां कृते मौनम् एव आभूषणम् अस्ति।
(ग) मौनं विदुषां दोषः भवति।
(ii)
ज्ञाने मौनं क्षमा शक्तौ।

(क) राजा दिलीपः अज्ञानी आसीत्, अतः मौनम् अधारयत्।
(ख) शक्तिहीनः राजा सर्वान् क्षमते।
(ग) ज्ञानी सन् अपि दिलीपः मौनम् अधारयत्, शक्तिमान् सन् अपि क्षमाशीलः आसीत्।
(iii)
भरतो वा भवेद् राजा वयं वा ननु तत् समम्।

(क) भरतः राजा भवेत् अहं वा, उभयं समानम् एव।
(ख) भरतः कदापि राजा न भवेत्।
(ग) रामः एव राजा भवितुम् इच्छति।
3
14
3×1=3

अधोलिखित-श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानपूर्तिं कुरुत –

पञ्चाशत्पञ्चवर्षाणि सप्तमासदिनत्रयम्।
भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः॥

भास्वती, पाठः 6 ‘नैकेनापि समं गता वसुमती’
अन्वयः – (i) __________ पञ्चाशत् पञ्च वर्षाणि, सप्त मासान्, दिनत्रयं (च) सगौडः (ii) __________ (iii) __________।
मञ्जूषा

भोक्तव्यः, भोजराजेन, दक्षिणापथः

3×1=3
15
4 अंक

अ
‘क’ स्तम्भस्य वाक्यांशस्य ‘ख’ स्तम्भस्य वाक्यांशेन सह मेलनं कुरुत –

‘क’ स्तम्भः ‘ख’ स्तम्भः
(1) यत्कृते महति क्लेशे राज्ये मे न मनोरथः। (क) आत्मानम् अन्धतमसि पातयन्ति।
(2) द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम्। (ख) मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।
(3) ते केचनान्ये भवन्ति नीचा ये उत्कोचलोभेन स्वामिनं वञ्चयित्वा (ग) वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया।
(4) अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः। (घ) त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता।
4×1=4
अथवा
आ
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् अर्थं मञ्जूषातः चित्वा लिखत –

मञ्जूषा

प्रासादम्, सूर्यः, जलम्, द्वारपालेन, सम्पत्तिः

4×1=4
(क)
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः।
(ख)
शूरं कृतज्ञं दृढसौहृदञ्च लक्ष्मीः स्वयं याति निवासहेतोः।
(ग)
इत्येवं भाषमाणेन द्वाःस्थेन क्षम्यतामेष आगच्छामि …
(घ)
राजा च सौधं निर्जनं विधाय वत्सराजं प्राह।
4
‘घ’ खण्डः भागः II · संस्कृतसाहित्येतिहासपरिचयः (10 अङ्काः)
प्र. सं.
अङ्काः
16
3×1=3

अधोलिखित-प्रश्नानाम् उत्तराणि लिखत – (केवलं प्रश्नत्रयम्)
(i)
‘प्रजानुरञ्जको नृपः’ इति पाठस्य रचयिता कः?
(ii)
‘स्वायत्तमेकान्तगुणं विधात्रा’ इति सूक्तेः रचयिता कः?
(iii)
‘कार्याकार्यव्यवस्थितिः’ इति पाठः श्रीमद्भगवद्गीतायाः कस्मात् अध्यायात् सङ्कलितः?
(iv)
‘रूपं प्रसिद्धं न बुधास्तदाहुः’ इति श्लोकः कस्य कवेः रचना अस्ति?
3×1=3
17
3×1=3

मञ्जूषायाः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नत्रयम्)
(i)
‘शिशुपालवधम्’ इति महाकाव्यस्य रचयिता __________ अस्ति।
(ii)
‘नैषधीयचरितम्’ इति महाकाव्यस्य रचयिता __________ अस्ति।
(iii)
‘वासवदत्ता’ इति गद्यकाव्यस्य लेखकः __________ अस्ति।
(iv)
‘चम्पूरामायणम्’ इति चम्पूकाव्यस्य रचयिता __________ अस्ति।
मञ्जूषा

भोजराजः, माघः, सुबन्धुः, श्रीहर्षः

3×1=3
18
4×1=4

समुचितं मेलयित्वा लिखत –

भागः – क (नाट्यतत्त्वम्) भागः – ख (विशेषता)
(i) नान्दी (क) नायकस्य हास्यप्रियः सखा
(ii) सूत्रधारः (ख) नाटकस्य अन्ते मङ्गलकामना
(iii) विदूषकः (ग) नाटकस्य आरम्भे मङ्गलाचरणम्
(iv) भरतवाक्यम् (घ) नाट्यप्रयोगस्य प्रधानः सञ्चालकः
4×1=4
॥ प्रश्नपत्रं समाप्तम् ॥

Marking Scheme / अंकन योजना (उत्तर देखें)
ANSHUL ACADEMY · anshulacademy.in

संस्कृतम् (केन्द्रिकम्, कोड-सङ्ख्या 322)

आदर्श-प्रश्नपत्रम् 2: अङ्कयोजना उत्तरसङ्केताश्च (Marking Scheme)
कक्षा – द्वादशी (2026-27) · भास्वती द्वितीयो भागः, संस्कृतसाहित्यपरिचयः
समयः – होरात्रयम्पूर्णाङ्काः – 80

अवधातव्यम् –

  1. अङ्कयोजनायां प्रदत्तानि उत्तराणि निदर्शनात्मकानि सन्ति। सन्दर्भानुसारम् अन्यानि उचितानि उत्तराणि अपि स्वीकार्याणि।
  2. आन्तरिकविकल्पयुक्तेषु प्रश्नेषु यदि छात्रः अतिरिक्तप्रश्नानाम् उत्तराणि लिखति तर्हि उत्तमानाम् उत्तराणां मूल्याङ्कनं करणीयम्।
  3. गद्यांशे पद्यांशे नाट्यांशे वा पृष्टाः प्रश्नाः अवबोधात्मकाः। प्रदत्तशब्दानां स्थाने समभाव-पर्यायवाचि-शब्दानां प्रयोगे अङ्काः देयाः। विभक्तीनां वचनानां च अशुद्धप्रयोगे अंशतः एव अङ्काः कर्तनीयाः, न तु सम्पूर्णाङ्काः।
  4. त्रुटिपूर्णवर्तन्यै व्याकरणात्मकप्रयोगाय च अनुपाततः अङ्काः कर्तनीयाः, न तु सम्पूर्णाङ्काः।
  5. रचनात्मककार्ये वाक्यरचना प्रमुखा, न तु वाक्यसौन्दर्यम्; अतः आंशिकवाक्यशुद्धये अपि अङ्काः देयाः।
  6. बहुविकल्पात्मकप्रश्नेषु शुद्धविकल्पस्य अक्षरम् उत्तरं च उभयम् अपि दत्तम्।
‘क’ खण्डः · अपठितावबोधनम् (10 अङ्काः)
प्र. सं.
उत्तराणि / मूल्यबिन्दवः
अङ्काः
1
10 अंक

(अ)
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(i) जलम्  ·  (ii) पेयजलम्  ·  (iii) अवकरम्
(आ)
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×2=4
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(i)
जनसङ्ख्या वर्धते नगराणि च विस्तीर्णानि भवन्ति, अतः जलस्य आवश्यकता दिने दिने वर्धते।
(ii)
वयं वर्षाजलस्य सङ्ग्रहं कुर्याम, अधिकान् वृक्षान् रोपयेम, स्नानसमये दन्तधावनसमये च नलं पिधाय जलं रक्षेम।
(iii)
यदि वयम् अद्य जलं न रक्षिष्यामः तर्हि भाविनः जनाः जलाय एव पीडिताः भविष्यन्ति।
(इ)
अनुच्छेदस्य समुचितं शीर्षकं लिखत।
1
जलसंरक्षणम् / जलं जीवनम् / जलस्य महत्त्वम्। अन्यानि अपि उचितानि शीर्षकाणि स्वीकार्याणि।
(ई)
यथानिर्देशम् उत्तरत –
3×1=3
(i)
(ग) रोगाः
(ii)
(क) आवश्यकता
(iii)
(घ) जलम्
10
‘ख’ खण्डः · रचनात्मककार्यम् (15 अङ्काः)
प्र. सं.
उत्तराणि / मूल्यबिन्दवः
अङ्काः
2
10×½=5

पत्रस्य रिक्तस्थानानि
10×½=5
(i) प्रधानाचार्याः  ·  (ii) पुस्तकालये  ·  (iii) छात्रः  ·  (iv) अल्पानि  ·  (v) उपलभ्यन्ते  ·  (vi) पठितुम्  ·  (vii) मम  ·  (viii) करणीया  ·  (ix) अभ्यासम्  ·  (x) सुरेशः
10×½=5
3
5 अंक

अ
चित्रवर्णनम् (आदर्शोत्तरम्)
5
इदं विपणेः चित्रम् अस्ति। एकः शाकविक्रेता आपणे शाकानि विक्रीणाति। सः तुलया शाकानि तोलयति। एका महिला शाकानि क्रीणाति। तया सह एकः बालकः अस्ति। समीपे एका धेनुः तिष्ठति। विपण्यां बहवः जनाः सन्ति।
अथवा
आ
अनुच्छेदलेखनम् (आदर्शोत्तरम्)
5
समयः अमूल्यं धनम् अस्ति। गतः समयः पुनः न आगच्छति। अतः वयं समयस्य सदुपयोगं कुर्याम। छात्राः यथासमयं सर्वाणि कार्याणि कुर्वन्ति चेत् ते जीवने सफलतां लभन्ते। वयम् आलस्यं त्यजेम समयपालनं च कुर्याम।
वाक्यरचना भावप्रकटनं च प्रमुखम्; वाक्यं दीर्घं लघु वा इति महत्त्वपूर्णं नास्ति। प्रतिवाक्यं शुद्धये अङ्काः; मञ्जूषापदानां प्रयोगः अनिवार्यः न, विभक्तिपरिवर्तनं कृत्वा अपि प्रयोगः स्वीकार्यः।
5
4
5 अंक

अ
कथापूर्तिः (10×½)
10×½=5
(i) काष्ठहारकः  ·  (ii) अच्छिनत्  ·  (iii) कुठारः  ·  (iv) चिन्तितः  ·  (v) आनीय  ·  (vi) नास्ति  ·  (vii) अगृह्णात्  ·  (viii) सहर्षम्  ·  (ix) सत्यवादितया  ·  (x) सत्यम्
अथवा
आ
संवादपूर्तिः (5×1)
5×1=5
(i)
ह्यः अहं पित्रा सह पुस्तकमेलां द्रष्टुम् अगच्छम्।
(ii)
नगरस्य प्रगतिमैदाने पुस्तकमेला आयोजिता अस्ति।
(iii)
मया पञ्चतन्त्रस्य कथापुस्तकम् एकः शब्दकोशः च क्रीते।
(iv)
आम्, तत्र बालकानां कृते कथावाचनं चित्रकलाप्रतियोगिता च आस्ताम्।
(v)
तर्हि श्वः आवां सह गमिष्यावः।
5
‘ग’ खण्डः · अनुप्रयुक्तव्याकरणम् (20 अङ्काः)
प्र. सं.
उत्तराणि / मूल्यबिन्दवः
अङ्काः
5
4 अंक

अ
सन्धिः / सन्धिच्छेदः
4×1=4
(क)
खलु + अत्र (यण्सन्धिः)
(ख)
सेवकोऽसि (विसर्गसन्धिः: उत्वम्, पूर्वरूपम्)
(ग)
सम्भृत + अर्थानाम् (दीर्घसन्धिः)
(घ)
अत्रैव (वृद्धिसन्धिः)
अथवा
आ
सन्धिः / सन्धिच्छेदः
4×1=4
(क)
परि + अपालयत् (यण्सन्धिः)
(ख)
ततस्तयोः (विसर्गसन्धिः, विसर्गस्य सकारः)
(ग)
शोकादवचनात् / शोकादवचनाद् (व्यञ्जनसन्धिः, जश्त्वम्)
(घ)
रक्ष + इति (गुणसन्धिः)
सन्धिनाम लेखनम् अनिवार्यं नास्ति; शुद्धाय सन्धिपदाय सन्धिच्छेदाय वा पूर्णः अङ्कः।
4
6
4×1=4

समासः
4×1=4
(i)
(ख) राज्यस्य लोभात्
(ii)
(घ) क्रमेण प्राप्ते
(iii)
(क) भव्या मूर्तिः यस्य सः
(iv)
(ग) गजेन्द्रारूढः
4×1=4
7
4×1=4

प्रत्ययाः
4×1=4
(i)
(ख) धृत्वा
(ii)
(ग) मन् + शानच्
(iii)
(घ) श्रोतुम्
(iv)
(क) सम् + मिल् + क्त
4×1=4
8
4×1=4

विभक्तिप्रयोगः (उपपद-कारकविभक्तयः)
4×1=4
(i)
(ख) तुभ्यम्
(ii)
(क) ते
(iii)
(घ) राज्ञे
(iv)
(ग) मया
4×1=4
9
4 अंक

अ
वाच्यम् (संवादः)
4×1=4
(i) आचर्यते  ·  (ii) वृक्षाः  ·  (iii) त्वया  ·  (iv) करिष्यते
अथवा
आ
वाच्यम् (वाक्यानि)
4×1=4
(i) लिख्यते  ·  (ii) युष्माभिः  ·  (iii) दास्यन्ते  ·  (iv) कविता
4
‘घ’ खण्डः भागः I · पठितावबोधनम् (25 अङ्काः)
प्र. सं.
उत्तराणि / मूल्यबिन्दवः
अङ्काः
10
5 अंक

I.
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×½=1
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(क) वेदम्  ·  (ख) प्रजातन्तुम्  ·  (ग) धर्मकामाः
II.
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(क)
आचार्यः अन्तेवासिनं सर्वप्रथमं ‘सत्यं वद, धर्मं चर’ इति उपदिशति।
(ख)
कर्मविचिकित्सायां सत्यां शिष्यः तथा वर्तेत यथा तत्र सम्मर्शिनः युक्ताः आयुक्ताः अलूक्षाः धर्मकामाः ब्राह्मणाः वर्तेरन्।
(ग)
आचार्यः कथयति – ‘एष आदेशः, एष उपदेशः, एतौ वेदोपनिषत्, एतदनुशासनम्’ इति।
III. (अ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
आचार्यः
(ख)
अलूक्षाः
अथवा
(आ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
ब्राह्मणेभ्यः
(ख)
प्रियम्
5
11
5 अंक

I.
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×½=1
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(क) विमोक्षाय  ·  (ख) आसुर्याः  ·  (ग) अर्जुनाय
II.
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(क)
आसुरीं संपदम् अभिजातस्य दम्भः, दर्पः, अभिमानः, क्रोधः, पारुष्यम् अज्ञानं च भवन्ति।
(ख)
यतः पाण्डवः दैवीं संपदम् अभिजातः अस्ति, अतः श्रीभगवान् तं ‘मा शुचः’ इति कथयति।
(ग)
आसुरी संपद् निबन्धाय (संसारबन्धनाय) मता, अतः सा त्याज्या।
III. (अ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
आसुरीम्
(ख)
आसुरी
अथवा
(आ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
निबन्धाय
(ख)
अज्ञानम्
5
12
5 अंक

I.
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
2×½=1
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(क) सहकारम्  ·  (ख) सङ्केतैः  ·  (ग) एकाकिनी
II.
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
2×1=2
केवलं प्रश्नद्वयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(क)
नारी जीवनयात्रायां कमपि सहचरम् अपेक्षते, यः तस्याः अवलम्बनं स्यात्।
(ख)
यदि कुण्डला शीघ्रमेव पतिगृहं गमिष्यति तदा मदालसा एकाकिनी भविष्यति।
(ग)
मदालसा सङ्गीतसाहित्यमाध्यमेन ब्रह्मविद्यां सरसां विधाय बहुभ्यः शिशुभ्यः शिक्षणं प्रदास्यति।
III. (अ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
सरसाम्
(ख)
अध्ययने
अथवा
(आ)
निर्देशानुसारम् उत्तरत –
2×1=2
(क)
अहम्
(ख)
नार्यै
5
13
3 अंक

अ
भावार्थपूर्तिः
3×1=3
(i) निरन्तरम्  ·  (ii) मितम्  ·  (iii) कांस्यम्
अथवा
आ
शुद्धभावार्थचयनम्
3×1=3
(i)
(ख) विदुषां समाजे मूर्खाणां कृते मौनम् एव आभूषणम् अस्ति।
(ii)
(ग) ज्ञानी सन् अपि दिलीपः मौनम् अधारयत्, शक्तिमान् सन् अपि क्षमाशीलः आसीत्।
(iii)
(क) भरतः राजा भवेत् अहं वा, उभयं समानम् एव।
3
14
3×1=3

अन्वयपूर्तिः
3×1=3
(i) भोजराजेन  ·  (ii) दक्षिणापथः  ·  (iii) भोक्तव्यः
3×1=3
15
4 अंक

अ
वाक्यांशमेलनम्
4×1=4
(1)
(1) – (ग) यत्कृते महति क्लेशे राज्ये मे न मनोरथः। वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया।
(2)
(2) – (घ) द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम्। त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता।
(3)
(3) – (क) ते केचनान्ये भवन्ति नीचा ये उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसि पातयन्ति।
(4)
(4) – (ख) अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।
अथवा
आ
प्रसङ्गानुसारम् अर्थलेखनम्
4×1=4
(क) सूर्यः  ·  (ख) सम्पत्तिः  ·  (ग) द्वारपालेन  ·  (घ) प्रासादम्
4
‘घ’ खण्डः भागः II · संस्कृतसाहित्येतिहासपरिचयः (10 अङ्काः)
प्र. सं.
उत्तराणि / मूल्यबिन्दवः
अङ्काः
16
3×1=3

सन्दर्भग्रन्थाः रचयितारः च
3×1=3
केवलं प्रश्नत्रयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(i) महाकविः कालिदासः  ·  (ii) भर्तृहरिः  ·  (iii) षोडशाध्यायात्  ·  (iv) मङ्गलदेवशास्त्री
3×1=3
17
3×1=3

महाकाव्यं गद्यकाव्यं चम्पूकाव्यं च
3×1=3
केवलं प्रश्नत्रयम् अपेक्षितम्; सर्वेषाम् उत्तराणि अत्र दत्तानि।
(i) माघः  ·  (ii) श्रीहर्षः  ·  (iii) सुबन्धुः  ·  (iv) भोजराजः
3×1=3
18
4×1=4

नाट्यसाहित्यम्: नाट्यतत्त्वानां विशेषताः
4×1=4
(i)
(i) नान्दी – (ग) नाटकस्य आरम्भे मङ्गलाचरणम्
(ii)
(ii) सूत्रधारः – (घ) नाट्यप्रयोगस्य प्रधानः सञ्चालकः
(iii)
(iii) विदूषकः – (क) नायकस्य हास्यप्रियः सखा
(iv)
(iv) भरतवाक्यम् – (ख) नाटकस्य अन्ते मङ्गलकामना
4×1=4
॥ अङ्कयोजना समाप्ता ॥

सभी CBSE सैंपल पेपर 2026-27 (All CBSE Sample Papers) →